________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / करणे / विमर्शनोक्तं / वत्म निश्चयतो निराकरणे न यतितव्यमेव / यतो न शक्यत एवावश्यंभाविनीनामासां निराकरणं काँ। विम्मश्यकारौ च पुरुषः कथमशक्येऽर्थे प्रवर्तते / न हि कर्मपरिणामकालपरिणतिखभावलोकस्थितिभवितव्यतादिसंपूर्णकारणमामग्रीबलप्रवर्तितानामवश्यमाविर्भवन्तीनाममूषामन्येषां वा कार्यविशेषाणां निराकरणे यतमानः पुरुषः प्रयामादृते कंचिदर्थं पुषणाति। प्रकर्षः प्राह। साम पूर्व भवता प्रत्येकमासां जरारुजादौनामपराण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि / तत्कथमिदानौं कर्मपरिणामादौनि प्रवर्तकत्वेनोच्यन्ते। विमर्शनोक / तानि विशेषकारणानौति कृत्वा प्राधान्येनोक्तानि / परमार्थतन्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापारमन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किंचिजगति जायते / प्रकर्षः प्राह / माम यद्येवं ततः पुरुषेण किमातानो निजवर्गौणस्य वामूरभ्वर्णवर्तिनौरा पतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपाय: / किं नान्वेवणीया एव वैद्यौषधमन्त्रतन्त्ररसायनचतुर्विधदण्डनीत्यादयः समुपस्थिताराहजाहत्यादिनिर्घातनोपायाः / किं सर्वथा पादप्रसारिलैवात्र शेयस्करी। किमकिंचित्कर एव पुरुषो हेयोपादेयहानोपादाने / ननु प्रत्यक्षविरुद्ध मिदं यतः प्रवर्तन्त एव पुरुषा हिताहितयोरवातिनिराकरणकामतया / प्रवृत्ताश्चोपाये प्राप्नुवन्ति हितमर्थ निराकुर्वन्ति चोपस्थितमप्युपायत एवाहितमिति / विमर्शनोक्तं / वत्म विश्रब्धो भव मोत्तालतां यामीः। परामृश वचनैदंपर्य / निश्चयतो हि मयोकं यथा मा प्रवर्तिष्ट पुरुषः / For Private and Personal Use Only