________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / गम्यत्वात्ते सपत्नानां वल्लभानामवल्लभाः। नयन्ति क्लेशतः कालमात्मनिन्दापरायणः // तदेषापि समासेन वत्म दुर्भगता मया / तुभ्धं निगदिता यासावुद्दिष्टा सप्तमी पुरा // एवं च स्थिते / जरा रुजा स्मृतिश्चेति खलता च कुरूपता / दरिद्रता दुर्भगता उद्दिष्टाः क्रमशो यथा // एता या यत्प्रयुका वा यदौर्या यत्परिच्छदाः / चेष्टन्ते यस्य बाधायै निर्दिष्टाः क्रमशस्तथा // एताश्चैवं विवलान्ते विपक्षक्षयमुच्चकैः / कुर्वाणा भवचक्रेऽत्र लोकपीडनतत्पराः // प्रकर्षणोदितं माम किमामां विनिवारकाः / लोकपाला न विद्यन्ते नगरेऽत्र नृपादयाः // विमर्शनोदितं वत्स नैताः शक्या नृपादिभिः / निवारयितमित्यत्र कारणं ते निवेदये // ये केचिौर्यभूयिष्ठाः प्रभवो भवनोदरे / तेव्वपि प्रभवन्येताः सर्वेषु प्रमभं सदा // सर्वत्र विचरन्तीनामासामुद्दामलीलया / गजानामिव मत्तानां नास्ति मल्लो जगत्त्रये // खप्रयोजनवौर्यण विलसन्ती निरङ्कुशं / को नाम भुवने साक्षादेताः स्खलयितुं क्षमः / / प्रकर्षणोतं / माम सत्किं पुरुषेण न यतितव्यमेवामूषां निग For Private and Personal Use Only