________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / बहिरङ्ग भवेदस्यास्तात चित्र प्रयोजकम् / वैरूप्यदुःस्वभावत्वदुष्कर्मवचनादिकम् // तच्च नैकान्तिकं ज्ञेयं स एव परमार्थतः / हेतुरैकान्निकोऽमुख्या नामनामा महीपतिः // वीर्य तु वर्णयन्त्यस्या ज्ञाततत्त्वा मनीषिणः / अवल्लभमतिदेण्यं यदेषा कुरुते जनम् // दीनताभिभवो लज्जा चित्तदुःखासिकातुला / न्यूनता लघुता वेषविज्ञानफलहीनता // इत्याद्याः परिवारोऽस्या भवन्ति बहवो जनाः / पुरेऽत्र यहलादेषा बंधमौति बलोद्धरा / / अस्ति प्रयुक्ता तेनैव सुप्रसन्नेन देहिनाम् / नाना सुभगता नाना प्रख्याता जनमोदिनी // मा मौष्टवमनस्तोषगर्वगौरवसम्मदैः / प्रायत्यपरिभृताद्यैः परिवारितविग्रहा // वजन्ती भवचक्रेऽत्र जनमानन्दनिर्भरम् / करोति सुखितं मान्यं निःशेषजनवल्लभम् // तस्याश्च प्रतिपक्षत्वादियं दुर्भगताधमा / उन्मलनकरी तात करिणीव लताततेः // अतः सोन्मूलिता येषामेनया हितकारिणी / ते प्रकृत्यैव जायन्ते जनानां गाढमप्रियाः // खभऽपि न रोचन्ते परेभ्यो नतरां पुनः / बन्धुन्योऽपि न भासन्ते जना दुर्भगताहताः // For Private and Personal Use Only