________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / ईर्थ्यादयश्च विज्ञयाः खलतापरिचारिकाः // अस्ति पुण्योदयो नाम द्वितीयो मूलभूपतेः / सेनानीस्तत्प्रयुकोऽस्ति सौजन्याख्यो नरोत्तमः // स वौर्यधैर्यगाम्भीर्यप्रश्रयस्थैर्यपेशलैः / परोपकारदाक्षिण्यकृतज्ञत्वार्जवादिभिः // युतः पदातिभिस्तात जनं बन्धुरमानसम् / कुर्वाणो निजवौर्यण सत्सुधाचोदपेशलम् // मद्धर्मलोकमर्यादां सदाचारं सुमित्रताम् / घटयंश्चातुलां लोके सद्विश्रम्भसुखासिकाम् // जनयत्येव केषांचिद्भवचक्रेऽपि देहिनाम् / निर्मिथ्यं चारुताबुद्धिं गाढसौन्दर्ययोगतः // तस्येयं खलता तात नितरां परिपन्थिनौ / यतः सोऽहतमेषा तु कालकूटविषाधिका // श्रतो निहत्य तं वौर्यादियं पापिष्ठमानमा / एवं विवलाते वत्स पुरेऽत्र सपरिच्छदा // एनया हतसौजन्याश्चेष्टन्ते यादृशं जनाः / तदुक्त्यालं तथापौषणित्वा तव कथ्यते // चर्चितानेकदुर्मायाः परवञ्चनतत्पराः / निष्पिष्टा द्वेषयन्त्रेण मुक्तस्नेहाः खलाः स्फुटाः // अग्टह्यमाणा भत्कृत्यैर्भषन्तः संस्तुतेष्वपि / खादन्तो निजवाश्च ते खला मण्डलाधिकाः // उत्पादयन्तश्छिद्राणि पातयन्तः स्थिरामपि / 82 For Private and Personal Use Only