________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 650 उपमितिभवप्रयचा कथा / कार्योत्रिपिटिका कुर्य रुद्वेगं ते खलाखवः / चित्तेन चिन्तयन्त्यन्यदन्यज्जल्पन्ति भाषया / क्रिययान्यच चेष्टन्ते ते खलाः खलताहताः // क्वचिदुष्णाः कचिच्छौताः कचिन्मध्यमतां गताः / नेकरूपा भवन्त्येते सानिपाता इव ज्वराः / / किं च / नवानुरोधतो वत्स कथाप्येषा मया कृता / खयं त्वमौषां नामापि नाहमाख्यातुमुत्महे // तदेषा खलता तात लेशतो गदिता मया / निबोध माम्प्रतं वत्म वर्ण्यमानां कुरूपताम् // योऽसौ ते पूर्वमाख्यातो नामनामा महीपतिः / स दौथ्येन युनत्येनां भवचक्रे कुरूपताम् // बाहुविध्यं दधत्युच्चैबहिरङ्गानि भावतः / तस्यैवादेशकारोणि यान्यस्याः कारणानि भोः / / तथाहि / दुष्टाहारविहाराद्यैः प्रकुष्यन्तः कफादयः / भूयांभो देहिनां देहे जनयन्ति कुरूपताम् / वौर्य पुनरदोऽमुस्था यदेषा देहवर्तिनौ / सदा हि कुरुते रूपं दृष्टेरुद्वेगकारणम् // खञ्जताकुण्टताकाण्यवामनवविवर्णताः / कुजत्वान्धववाडव्यहीनाङ्गत्वादि(ति)दीर्घताः // इत्याद्याः परिवारेऽस्या वर्तन्ते वत्म दुर्जनाः / For Private and Personal Use Only