________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / एकाकिनः कृतोद्योगाः सुकृतेतर शम्बताः / दीर्घ मार्ग प्रपद्यन्ते सुखदुःखममाकुलम् // तनिजास्तु तथा कृत्वा रोदनाकन्दगुन्दलम् / लगन्ति स्वीयकृत्येषु खादन्ति च पिबन्ति च // विभजन्ते धनं भोगैर्युध्यन्ते च तदर्थिनः / सारमेया दूवासाद्य किंचिदामिषखण्डकम् // तदर्थ तु कृताघौघास्त जना दुःखकोटिभिः / केवलाः परिपौद्यन्ते मृत्यादिष्टा बहिर्गताः / एवं च स्थिते / निवेदिता मृतिर्वत्म नागाकारेषु धामसु / संचार्यते यया लोको भवचके मुहुर्मुहुः // अधना वर्ण्यमानेयं खलताप्यवधार्यताम् / एतत्वरूपविज्ञाने यद्यस्ति तव कौतकम् // अस्ति पापोदयो नाम सेनानौर्मूलभूपतेः / प्रयुक्ता तात तेनैषा खलता भवचक्रके // बहिर्निमित्तमप्यस्याः किल दुर्जनमङ्गमः / केवलं तत्त्वतः मोऽपि पापोदयनिमित्तकः // वौर्यमस्याः गरौरेषु वर्तमानेयमुच्चकैः / कुरुते देहिनां दुष्टं मनः पापपरायणम् // शायपैशुन्यदौःशौल्यवैभाव्य गुरुविनवाः / मित्रद्रोहकतघ्नत्वनैर्लज्ज्यमदमत्सराः // मर्माहट्टनवैयात्ये परपौडननिश्चयाः / For Private and Personal Use Only