________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 642 उपमितिभवप्रपञ्चा कथा / ततो निःशेषतो वौक्ष्य तारविस्फारितेक्षणः / वरयोविनचेतस्को निजगाद एसंभ्रमः // कथम् / हा माम माम दृश्यन्ते कष्टाः सप्त महेलिकाः / अमूर्या नगरेऽमुभिन् दारुणाकारधारिकाः // अाक्रान्ताशेषधामानः कृष्णा बीभत्सदर्शनाः / वेताल्य दुव नाम्नापि लोककम्पविधाथिकाः // एताः काः किंप्रयुक्ता वा किंवौर्याः किंपरिच्छदाः / चेष्टन्ते कस्य बाधायै तथैवंकृतनिश्चयाः // इदं मे मर्वमाख्यातं यावदद्यापि नो त्वया / तावत्प्रतारणं मन्ये भवचक्रस्य वर्णनम् // अतः समस्तं मामोडदो मह्यमाख्यातुमर्हति / विमर्गेनोदितं वत्म निबोध त्वं निवेद्यते // जरा रुजा मृतिश्चेति खलता च कुरूपता / दरिद्रता दुर्भगता नामतोऽमूः प्रकीर्तिताः // मा कालपरिणत्याख्या भार्या या मूलभूपतेः / तया प्रयोजिता तावजरेयं भवनोदरे // बाह्यान्यपि निमित्तानि वर्णयन्तीह केचन / अस्याः प्रयोजकानीति लवणाद्यानि मानवाः // वौर्य पुनरदो ऽमुय्या यदाम्लेषेण देहिनाम् / हरत्यशेषमवर्णलावण्यबलशालिताम् // For Private and Personal Use Only