________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। गाढा होषात्पुनर्वत्म विपरीतमनस्कताम् / कुरुते गोच्यतां लोके देहिनां वौर्य शालिनी // वलोपलितखालित्यपिप्लव्यङ्ग कुवर्णताः / कम्प कर्कशिकागोकमोहथिल्यदीनताः // मतिभङ्गान्ध्यबाधिर्यदन्तवैकल्यरौणताः / जरापरिकरः प्रौढो वायुरत्र बलाग्रणौः // अनेन परिवारेण परिवारितविग्रहा / जरेयं विलसत्यत्र मत्तावगन्धहस्तिनी // अधुना यस्य बाधायै चेष्टते कृतनिश्चया / जरेयमेव तं वत्स विपक्षं ते निवेदये / तस्या एव महादेव्या विद्यतेऽनुचरः परः / यौवनाख्यो महावीर्यश्चरट उद्दामपौरुषः // स च योगी तदादेशात्प्रविण्याङ्गेषु देहिनाम् / तनोति बलमौर्जित्यं बन्धुराकारधारितां // विलासहासविब्बोकविपर्यासपराक्रमः / वलानोत्प्लवनोल्लासलासधावनसम्मदैः // गर्वशौण्डौर्यखिङ्गत्वमाहमादिभिरुद्धतैः / युतः पदातिभि कैलिया म विजम्भते // तत्सम्बन्धादमी भोगसम्भोगसुखनिर्भरम् / प्रात्मानं मन्वते लोका भवचक्रनिवासिनः // ततस्तं निजवीर्यण यौवनाख्यमियं जरा / मृद्राति सपरीवारं कुडा कृत्येव साधकम् / / For Private and Personal Use Only