________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / बुभुक्षारतिसन्तापपिपासावेदनातुराः / दाहशोषभयोवेगबन्धताड़नपीडिताः // सततं दुःखिता लोका धार्यन्तेऽत्र पुरेऽखिलाः / महामोहादिभिर्वत्म दौनाः शरणवर्जिताः // धर्माधर्मविवेकेन विकलाः कलुषात्मकाः / तिष्ठन्त्यनन्तजातीया पुरोऽत्र पुरुषाः किल // तदिदं पशुसंस्थानं वर्णितं ते महापुरम् / दूदानौं वर्ण्यते वत्स तदिदं पापिपञ्चरम् // येऽत्र लोका महापापप्रारभारभरपूरिताः / वमन्ति तेषां दुःखस्य नास्ति विच्छेदसम्भवः // योऽसौ ते वेदनौयाख्यनृपतेः पुरुषो मया / प्रसातनामकः पूर्वं वर्णितस्तत्र मण्डपे // तस्येदं भो महामोहराजेन निखिलं पुरम् / क्वचित्तोषितचित्तेन भटभुक्त्या समर्पितम् // ततस्तेन पुरे सर्वे परमाधार्मिकनामकैः / अत्र लोकाः कदर्थ्यन्ते पुरुषैः स्वनियोजितैः // कथम् / पाय्यन्ते तप्तताम्राणि नीयन्ते शतचर्णताम् / खाद्यन्ते निजमांमानि दह्यन्ते तौववन्हिना // शाल्मलौरभिरोह्यन्ते वज्रकण्टकसंकुलाः / तार्यन्ते क्लेदबहुलां वत्स वैतरणौँ नदीम् // छिद्यन्ते करुणाहौनरसिपत्रवनेरितैः / For Private and Personal Use Only