________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः साताभिधानस्ते भद्र कथितस्तत्र मण्डपे // म कर्मपरिणामेन जनाल्हादविधायकः / विहितो निखिलस्थास्य पुरस्थ वरनायकः // ततस्तेन खमनोगं मतताल्हादसुन्दरम् / इदं हि वत्म निःशेषं धार्यते विबुधालयम् // प्रकर्षणोदितं माम महामोहादिभूभुजाम् / किमत्र प्रसरो नास्ति येनेदमतिसुन्दरम् // विमर्श: प्राह मा मैवं मन्येथास्वं कथंचन / प्रभवन्ति प्रकर्षण यतोऽत्रान्तरभूभुजः // ईर्ष्याशोकभयक्रोधलोभमोहमदभ्रमैः / सतताकुलितं वत्स पुरं हि विबुधालयम् // प्रकर्षः प्राह यद्येवं ततोऽत्र ननु किं सुखम् / किं वेदं दृष्टचित्तेन भवता चार वर्णितम् // ततस्तेनोदितं वत्म न सुखं परमार्थतः / नाप्यत्र सुन्दरं किंचित्तत्त्वतो विबुधालये / केवलं मुग्धबुद्धीनां विषयामिषवाञ्छिनाम् / अवास्था महतौ वत्म मयेदं तेन वर्णितम् // इतरथा / महामोहनरेन्द्रस्य परिवारसमायुजः / क राज्यं क्व च लोकानां सुखवार्तति दुर्घटम् // तदिदं ते समासेन कथितं विबुधालयम् / अधुना पशुसंस्थानं कथ्यमानं निबोध मे // For Private and Personal Use Only