________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 636 उपमितिभवप्रपञ्चा कथा। कर्मभिर्जनितं दुःखं विषादावसरः कथम् // अन्यच्च / विषादो वर्धयत्येव तद्दःखं तात देहिनाम् / न त्राणकारकस्त्राणं केवलं शुभचेष्टितम् // यतः // दुःखानि पापमूलानि पापं च शुभचेष्टितैः / सर्व प्रलीयते वत्स ततो दुःखोद्भवः कुतः // प्रकर्षः प्राह यद्येवं ततः सुन्दरचेष्टिते / वरमेभिः कृतो यत्रो न विषादस्य शामने // विमर्शनाभिहितम् / चारु चारूदितं वत्म केवलं मूढजन्तवः / इदमेते न जानन्ति भवचक्रनिवासिनः // अन्यच्चात्र // कियन्ति संविधानानि श्टङ्गग्राहिकया तव / मया निवेदयिष्यन्ते नगरे पारवर्जिते // दूतश्च / अस्य स्वरूपविज्ञाने बलवत्ते कुतूहलम् / अतः समासतो वत्म तुभ्यमेतनिवेदये // प्रारूढः पर्वते तात विबेकाख्येऽत्र निर्मले / ददं विलोकयस्येव रूपतः किं निवेद्यताम् // गुणतस्तु पुनर्वत्म वर्ण्यमानं मया स्फुटम् / दूदं यथाद्दुध्यस्ख भवचक्रं महापुरम् // For Private and Personal Use Only