________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 637 अवान्तरपुरैर्वत्म भूरिभिः परिपूरितम् / यद्यपौदं तथाप्यत्र श्रेष्ठं पुरचतुष्टयम् // एकं हि मानवावासं द्वितीयं विबुधालयम् / तृतीयं पसंस्थानं चतुर्थं पापिपञ्चरम् // एतानि तानि चत्वारि प्रधानानौह पत्तने / पुराणि व्यापकानौति मर्वेषां मध्यवर्तिनाम् // तत्रेदं मानवावासं महामोहादिभिः सदा / अन्तरङ्गजनैाप्तमेतैः कलकलाकुलम् // कथम् / क्वचिदिष्टजनप्राप्तौ तोषनिर्भरमानुषम् / क्वचिद्देश्यजनासत्तेर्विमनीभूतदुर्जनम् // क्वचिद्धनलवावाप्तिजनितानन्दसुन्दरम् / क्वचिट्रविणनाशोत्थरहत्सन्तापतापितम् // क्वचिदुर्लभमत्मनुजन्मोद्भूतमहोत्सवम् / क्वचिदत्यन्तचित्तेष्टमरणाक्रन्दगुन्दलम् // क्वचित्सुभट सङ्घातप्रारब्धरणभौषणम् / क्वचिन्मिलितमन्मित्रविमुक्तनयनोदकम् // क्वचिद्दारिद्र्यदौर्भाग्यविविधव्याधिपौडितम् / क्वचिच्छब्दादिसंभोगादलोकसुखनिर्भरम् // क्वचित्मन्मार्गदूरस्थपापिष्ठजनपूरितम् / क्वचिच्च धर्मबुद्ध्यापि विपरीतविचेष्टितम् // किं चेह बहुनोक्न चरितानि मया पुरा / For Private and Personal Use Only