________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थ प्रस्तावः। एते विडम्बयस्येवमात्मानं तद्वशानुगाः / / किं च / नात्र केवलमौदृक्ष वामवीये ग्रहोदरे / आभ्यां हर्षविषादाभ्यां प्रेक्षणं वत्स नाव्यते // किं तर्हि / सर्वत्र भवचक्रेऽस्मिन् कारणैरपरापरैः / एतौ नर्तयतो नित्यं जनमेनं ग्टहे रहे // यतः / पुत्रं राज्यं धर्म मित्रमन्यदा सुखकारणम् / हर्षस्यास्य वशं यान्ति प्राप्या स्मिन् मूढजन्तवः // ततस्ते तत्परायत्ताः सहुद्धिविकला नराः / वत्स किं किं न कुर्वन्ति हास्यस्थानं विवेकिनाम् // न चिन्तयन्ति ते मूढा यथेदं पूर्वकर्मणा / पुत्रराज्यादिकं सर्व जन्तनामुपपद्यते // ततः कर्मपरायत्ते तुच्छे बाये ऽतिगत्वरे / कथंचित्तत्र संपन्ने हर्षः स्यात्केन हेतुना // तथा / विषादेन च बाध्यन्ते वियोगं प्राप्य वल्लभः / अनिष्टैः संप्रयोगं च नानाव्याधिशतानि च // बाधिताश्च विषादेन सदामो मूढदेहिनः / श्राक्रन्दनं मनस्तापं दैन्यमेवं च कुर्वते // न पुनर्भावयकोवं यथेदं पूर्वसंचितैः / For Private and Personal Use Only