________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / विलप्तं धनसर्वखं हतः सार्थः सबान्धवः / बद्धा ग्रहौता बन्धश्च तस्करैर्धनकामिभिः // तामां मध्ये ग्रहीतश्च वर्धनः क्रूरकर्मभिः / म मार्थवाह इत्येवं वादिभिर्भद्र तस्करैः / / नौत्वा पल्लिं ततोऽनेकयातनाशतपौडितः / म चौरैर्विहितो वत्म वर्धनो धनवाञ्छया / अयं च पुरुषस्तस्य सर्वदा पादधावकः / वत्म लम्बमको नाम टहजो दामदारकः // ततस्तत्तादृशं दृष्ट्वा खामिनं चौरपौडितम् / नंष्ट्वा कथंचिदायातो वृत्तान्तस्य निवेदकः // निवेदिते च वृत्तान्ते तथा वासववाणिजः / यदकार्षीत्त्वया तच्च दृष्टमेव ततः परम् // प्रकर्षणोदितं माम प्रलापाक्रन्दरोदनैः / किममौभिः परित्राणं तस्य संजनितं क्वतैः / विमर्शनोदितं वत्म नैतदेवं तथापि च / एवमेते प्रकुर्वन्ति विषादेन विनाटिताः // धनदत्तागमं प्राप्य ये हर्षवशवर्तिनः / वर्धनापदमामाद्य विषादेन च बाधिताः // तेषां हर्षविषादाभ्यामेतेषां पौडितात्मनाम् / कौशी वा भवेत्तात पर्यालोचितकारिता // मतश्च / अवौच्य वस्तुनस्तत्त्वमनाखोच्य हिताहितम् / For Private and Personal Use Only