________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 589 शरीरमलमप्येतज्जलशौचं कृतं जनैः / / तेषां विशोधयत्येक क्षणमात्रं न मर्वदा // यतः / रोमकूपादिभिर्जन्तोः शरीरं शतजर्जरम् / धौतं धौतं स्रवत्येव नैतच्छचि कदाचन // तथापि / क्वचित्प्रवर्तमानानां देवतातिथिपूजने / केषांचित्कारणं भर्जलशौचमनिन्दितम् // केवलं नाग्रहः कार्यो विदुषा तत्त्ववेदिना / तत्रैव जलजे शौचे स हि मूर्खत्वकारणम् // ततश्च / एवं विशुद्धबद्धौनां जलशौचादि कुर्वताम् / संजानपरिपूतानां तेषां तात महात्मनाम् // याप्येषा कथिता पूर्वमिहामुत्र च दुःखदा / जुगुप्सा सापि नष्टत्वान्नैव बाधाविधायिका // यावष्येतौ जगच्छत्र पूर्व व्यावर्णितौ मया / ज्ञानसंवरणो राजा दर्शनावरणस्तथा // तौ सर्वज्ञागमाभ्यामवासनावासितात्मनाम् / अप्रमादपराणां च नैव तेषां कदर्थको // योऽप्यन्तरायनामायं राजा पर्यन्तमंस्थितिः / दानादिविघ्नहेतुस्ते मया पूर्व निवेदितः // निराशानां निरौहानां दायिनां वौर्यशालिनाम् / For Private and Personal Use Only