________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / याप्येषा वर्णिता पूर्व महावीर्या रतिर्मया / भार्यास्य सापि तैनं भावनाबलतो जिता // तथैवंविधमद्भावभावनामतचेतसाम् / तेषामेषोऽप्यहो हासो दूरदरतरं गतः // तथा। मद्भावनिर्मलजलैः क्षालितामलचेतमाम् // सर्वत्र नियंलौकानां जुगुप्सापि न बाधिका // तथाहि / यैस्तत्त्वतो विनिर्णीता शरीराशुचिरूपता / जलशौचाग्रहस्तेषां नात्यन्तं मनसः प्रियः // यदेव चेतमः शुद्धेः सम्पादकमनिन्दितम् / तदेव शौचं विज्ञेयं यत एतदुदाहृतम् // सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः / सर्वभूतदया शौचं जलशौचं तु पञ्चमम् // एवं च स्थिते / कार्य जस्लैन नोऽकार्य किं तु सत्कार्यमौदृशम् / विधीयमानं यच्छौचं भूतानां नोपघातकम् // तच्च संजायते नूनं बहिर्मलविशुद्धये / नान्तरङ्गमलक्षालि यत उक्र मनौषिभिः // चित्तमन्तर्गतं दुष्ठं न स्नानाद्यैर्विशुध्यति / शतशोऽपि हि तद्धोतं सुराभाण्डभिवाशचि // किंच। For Private and Personal Use Only