________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः प्रचण्डपवनोद्धृतध्वजचेलाग्रचञ्चलम् / चित्तं तु विदुषां स्त्रैणे कथं रागनिबन्धनम् // विलमल्लोलकल्लोलजालमालाकुले जले / शशाङ्कविम्बवलोकैस्तद् ग्रहीतुं न पार्यते // स्वर्गापवर्गसन्मार्गनिमर्गार्गलिकासमाः / एता हि योषितो ननं नरकद्वारदेशिकाः // . न भुक्तासु न यतासु न वियुक्तासु देहिनाम् / विद्यमानासु नारोषु सुखगन्धोऽपि विद्यते // याश्चैवं योषितोऽनेकमहानर्थविधायिकाः / सुखमार्गार्गलास्तासु तुच्छ स्नेहनिबन्धनम् // एवं व्यवस्थिते नृणां यदिदं मूढचेष्टितम् / तदौदृशं ममाभाति पर्यालोचयतोऽधुना / / यदुत। महाविगोपको भृयान् हसनं च विडम्बनम् / विब्बोका बध्यभूमौषु गच्छतां पटहोपमाः // नाट्यं तु प्रेरणाकारं गान्धर्व रोदनोपमम् / विवेकिकरुणास्थानं योषिदात्मनिरीक्षणम् // विलामाः सन्निपातानामपथ्याहारम निभाः / उच्चैर्विनाटनं योषिदाम्लेषसुरतादिकम् // तदेवंविधमद्भूतभावनाभावितात्मभिः / तैर्जितो भद्र मत्पम्भिरेषोऽपि मकरध्वनः // For Private and Personal Use Only