________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 582 उपमितिभवप्रपञ्चा कथा / तेषां भद्र मनुष्याणां मोऽपि किं किं करिष्यति // अन्येऽपि ये भटा दुष्टा या नार्यों ये च डिम्भकाः / केचिदत्र बले तेऽपि न तेषां भद्र बाधकाः // एते तु भूपाश्चत्वार: सप्तानां मध्यवर्तिनः / तेषां भोः सुन्दराण्येव मर्वकार्याणि कुर्वते // ततश्च / इदं निर्जित्य वौर्येण तेऽन्तरङ्गबलं जनाः / तिष्ठन्ति सततानन्दा निर्बाधाः शान्तचेतसः // खमाधनयुतो यसमान्महामोहनराधिपः / अयमेव बहिर्लोके परत्रेह च दुःखदः // एवं च स्थिते / सद्भावभावनास्त्रेण यैः स एष वशीकृतः / कुतो दुःखोङ्गवस्तेषां निईन्दा सुखपद्धतिः // केवलं तादृशास्तात बहिरङ्गेष देहिषु / अत्यन्तविरला लोकास्तेनेदं गीयते जनैः // पोले शैले न माणिक्यं मौक्तिकं न गजे गजे / माधवो न हि सर्वत्र चन्दनं न वने वने // तदेवं कथितं तुभ्यं सन्ति ते बाह्यदेहिनः / केवलं विरला राज्ञां येऽमौषां दर्पनाशिनः // प्रकर्षः प्राह ते माम कुत्र तिष्ठन्ति देहिनः / यैरोदृशोऽपि विचिप्तः शत्रुवर्गो महात्मभिः // विमर्शनाभिहितं / वत्म समाकर्णय / श्रुतं मयाप्तजनसकाशा For Private and Personal Use Only