________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1126 उपमितिभवप्रपञ्चा कथा / तवास्ति यत्र दुःखाय वस्तु सांसारिकं जनाः // एवं च स्थिते / अमूर्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः / चौणमङ्गा महात्मानः केवलं सुखमासते // मर्वद्वन्दविनिर्मुकाः सर्वाबाधाविवर्जिताः / सवमंसिद्धमत्कार्याः सुखं तेषां किमुच्यताम् // किं च / जन्माभावे जरामृत्योरभावो हेत्वभावतः / तदभावे च निःशेषदुःखाभावः मदैव हि / / परमानन्दभावश्च तदभावे हि शाश्वतः / व्याबाधाभावसंमिद्धं सिद्धानां सुखमिप्यते // अथवा / त्यतबाह्येतरग्रन्था निःस्पृहा भावचारके / संतुष्टा ध्यानयोगेन प्रणमामृतपायिनः / / निःमङ्गा निरहङ्कारा निमलोमतचेतसः / सुखिनः केवलं लोके देहिनोऽपि सुसाधवः // सुखमेव च वाञ्छन्ति मर्व जगति जन्तवः / तच नास्त्येव संसारे विहायैकां सुसाधुताम् // तदिदं भो महासत्त्वा विनिश्चित्य विधीयताम् / विमुच्यामारसंमारं भवद्भिः सा सुमाधुता // ततो भद्रे तदा मह्यं प्रलघूभूतकर्मणः / इदं भगवतो वाक्यं चित्ते ऽत्यन्तं सुखायितम् For Private and Personal Use Only