________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः / 1127 चिन्तितं च मया / करोमीदं यदादिष्टं भदन्तः सुख कारणम् / ततः कृतं मया भने प्रव्रज्याभिमुखं मनः / अत्रान्तरे विरतवचमि भगवति वचनसुधा सेकवर्षिणि निर्मलसूरिकेवलिनि कन्दमुनिना बद्धकरकमलमुकुलं विधाय ललाटपट्टेऽभिहितमनेन / भगवनिह जगति कस्य दुःशकः कालविलम्बः कत् / भगवतोक्तं / जिज्ञामोर्गरुमूले समन्देहस्य / कन्दमुनिराह / यद्येवं ततो गुणधारणराजस्यदानौं संशयमपनेतुमर्हन्ति भगवन्तः / भगवतोतं / एवं क्रियते / मयोक्त / महाप्रसादः / तथा कन्दमुनि प्रत्यभिहितं / भदन्तानुग्रहीतोऽहं भगवता भगवन्तं प्रश्नयिता सुतरामनेन वचनविन्यासेन / कन्दमुनिनोक्नं / महाराजानुग्रहार्हा एव यूयं / साम्प्रतं भगवदचनमाकर्ण्यतां / स्थितोऽहं प्रहरी नतोत्तमाङ्गः / ततो भगवतोतं / महाराज गुणधारणायं ते मन्देहः / यथा यानि कनकोदरराजेन स्वप्ने दृष्टानि चत्वारि मानुषाणि यानि कुलंधरेण पञ्चोपलब्धानि कतमानि तानि कथं वा मदीयकार्यपरंपरानिवर्तकानि किमु वैकेन चत्वारि अपरेण पञ्च तानि तथा किंदेवरूपाणि तानि किं वार्थशून्यं स्वप्नमात्र नवयमपौति न संशयः / मयोत / भगवन्नेवमिदं यदादिष्टं भगवता / भगवानाइ / महाराज यद्येवं ततो महतीयं कथा कथं निवेद्यतां कथं वा श्रूयते / मयोक्तं / तथापि ममानुग्रहेण कथयन्तु भगवन्तः / ततः कथिता भगवतासंव्यवहारनगरादारभ्य सर्वा सर्वमंविधानकोपेता संक्षेपेण मदीयवक्रव्यता / अभिहितं च / For Private and Personal Use Only