________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटमः प्रस्तावः। 1125 अथामरकृते दिव्ये सत्कार्तस्वरभाखरे / ते सूरयो मया दृष्टाः कमले स्थितमूर्तयः // वेष्टिता मुनिवृन्देन देवदानवखेचरैः / तेभ्यो नतोत्तमाङ्गन कुर्वाणा धर्मदेशनाम् // ततश्च / बहदानन्दरोमाञ्चभूषितः सह राजकैः / अहं भक्त्या विहायेदं नारेन्द्रं चिहपञ्चकम् // तद्यथा। छत्र खड्गं किरौटं च वाहनं च सचामरम् / ततः कृतोत्तरासङ्गः प्रविष्टः सूर्यवग्रहे / ततो भगवतः सम्यग् द्वादशावर्त्तवन्दनम् / दत्त्वा यथाक्रमं शेषान्प्रणम्य मुनिपुङ्गवान् / लन्धाशौर्वादतुष्टात्मा भूयो नत्वा मुनीश्वरम् / प्रोतः मपरिवारोऽहं निषणः शुद्धभूतले // अथ कर्मविषोत्तारकारिणौ भव्यदेहिनाम् / अमृतक्षारिवाक्येन गृहणारम्भि देशना / कथं भो भव्याः शरणं धर्मो नास्त्यन्यत्मततभ्रमे / लसदुद्दामदुःखौघसङ्कुले भवचक्रके // मरणाय भवे जन्म कायो रोगनिबन्धनम् / तारुण्यं जरमो हेतुर्वियोगाय समागमः // निमित्तं विपदां लोके देहिनां सर्वसम्पदः / For Private and Personal Use Only