________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1124 उपमितिभवप्रपश्चा कथा / नाकुञ्चितं कचिच्चापं न कृता कोपदारुणा / दृष्टिस्तथापि मे जातं राज्यं कण्टकवर्जितम् // तथाप्येवं विधे ऽनल्य सुखसन्दोहकारणे / विद्यमानेऽपि नो जातं मम लोल्याकुलं मनः // किं तर्हि। मदागमे सदोद्योगी मम्यग्दर्शनतत्परः / पुण्योदयेन संयुको ग्रहिधर्मे कृतादरः / / मातेनालादितो नित्यं स्थितोऽहं मकुलंधरः / समं मदनमञ्जर्या देवद्दिवि लीलया // एवं च तिष्ठतम्तत्र मनस्यानन्दसागरे / माम्राज्ये मम चार्वङ्गि भूरिकालोऽतिल वितः // अथान्यदा ममास्थाने प्रविश्य प्रियदारकः / कल्याणो नाम मामेवं प्रणिपत्य व्यजिज्ञपत् // यदुत। आह्वादमन्दिरे देव देवदानवपूजिताः / समागता महाभागा निर्मला नाम सूरय. // तच्छ्रवाहं तदा भद्रे कल्याणवचनं मुदा / न मामि देहे नो गेहे न पुरे न जगत्त्रये // ततोऽङ्गलनमंयुक्त तस्मै संतुष्टचेतमा / दीनाराणां मया लक्षं दापितं प्रियभाषिणे // ततः सर्वादरेणाई सवयस्यः मभार्यकः / निर्गतो नगराने सूरोणां पादवन्दकः // For Private and Personal Use Only