________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटमः प्रस्तावः / 1123 गुरून् विज्ञाप्य ते नूनं पूरयिष्ये मनोरथम् // अथवा केवलालोकालोकिताखिलचेतसः / विज्ञाय भवतश्चित्तमागमिष्यन्ति ते स्वयम् // केवलं ग्टहिधर्मऽत्र मम्यग्दर्शनसंयुते / मदागमे च कर्तव्यो भवता तावदादरः // ततश्च / इदं कन्दमुनेर्वाक्यमाकर्ण्य श्रुतिपेशलम् / महाप्रसाद इत्येवं ब्रुवाणोऽहं सभार्यकः // ममित्रश्च तदा भद्रे विनयानम्रमस्तकः / प्रणम्य तं महाभागं काननाझवने गतः // ततः मोऽपि महाभागो मुनिर्मुनिवरैयुतः / गतो निर्मलमूरोणां गुरूणां पादवन्दकः // अथ कालक्रमाद्भद्रे स राजा मधुवारणः / तदा लोकान्तरौभूतः पिता मे लब्धधर्मकः // ततो राज्येऽभिषिक्तोऽहं बन्धुमन्त्रिमहत्तमैः / महानन्दविमर्दन हर्षनिर्भरमानसैः // ततः परिणतं राज्यं रक्त मे राजमण्डलम् / शत्रवः किङ्करोभूता वशीभूताश्च खेचराः / / किं बहुना / मरुतोऽपि ममाज्ञायां वर्तन्ते नतमस्तकाः / वर्धते कोशदण्डौ च जायन्ते सर्वसम्पदः // किं च। For Private and Personal Use Only