________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1122 उपमितिभवप्रपञ्चा कथा। अथ कन्दमुनेश्चार्यो' स्टवतो धर्मदेशनाम् / आविर्भूतो ममाग्रेऽसौ मुनिना च प्रकाशितः // गुणरततया युक्तस्तथा द्वादशमानुषैः / मयातः प्रतिपन्नोऽसौ बन्धुबुद्ध्या नरोत्तमः // तथा कुलंधरेणापि कान्तया च सबान्धवः / प्रपन्नो ग्टहिधर्माख्यो जातात्यन्तं सुखामिका // अथ कन्दमुनिः पृष्टः सन्देहं पूर्वचिन्तितम् / तं मया स्वप्नसंबद्धं सद्भावार्थबुभुत्मया // ततः कन्दमुनिः प्राह स्वमार्थस्य विनिर्णयः / अस्यातीन्द्रियवेत्तारं विना नैवोपलभ्यते // सन्ति मे केवलालोकभास्करा वरसूरयः / गुरवो निर्मला नाम दूरदेशविहारिणः // एवं च / तत्पादमूलं यास्यामि वन्दनार्थमहं यदा / तदा तान्प्रश्नयिष्यामि भद्र तावकसंशयम् // यतः / योऽयं स्वप्नदयाज्जातः सन्देहस्ते मनोगतः // विवितं तस्य भावार्थ विज्ञास्टन्ति महाधियः // मयो / भदन्त यदि तेऽत्रैव गुरवस्ते कथंचन / श्रागच्छेयुस्ततस्तत्स्यात्सुन्दरादपि सुन्दरम् // मुनिराह महाभाग गतोऽहं वचनेन ते / For Private and Personal Use Only