________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अछमः प्रस्तावः / 9121 पल्योपमपृथक्वे च लज्जिते तेन भावतः / प्रपन्नो ग्टहिधर्मोऽयं पूर्वमासीत्ततः परम् // यदा यदा पुनदृष्टौ महत्तममदागमौ / असंख्या भावतो वाराः प्रपन्नोऽयं तदा तदा // अधुना केवलं देव यतोऽभ्यर्णं गतो मम / तेनैष हन्त तत्पार्श्व विशेषेण प्रहीयते / / तत्तूर्णं यातु तत्पार्श्व रञ्जयत्वेष मद्गुणैः / प्रस्तावो मादृशां तत्र ततो याने भविष्यति // अन्यच्च / महामोहादिसन्त्रामश्चित्तवृत्तेर्विशुद्धता / ग्रहिधर्मऽपि तत्रस्थे भवेद्देव विशेषतः // तथा / स स्थादभिमुखोऽस्माकमक्षेपेण दिदृक्षया / अनेन ग्रहिधर्मेण पार्श्वस्थेन प्रचोदितः // चेतःसुखामिका गर्बो मन्तुष्टिः कर्मतानवम् / भवभौतेरभावश्च ग्टहिधर्मेण ते गुणाः // तस्मात्प्रस्थाप्यतामेष रहिधर्मस्तदन्तिके / यास्यामोऽवसरं ज्ञात्वा पश्चात्सर्वे वयं पुनः // तदिदं मन्त्रिणो वाक्यं श्रुत्वा सनीतिनिर्मलम् / चारित्रधर्मराजेन प्रहितो निजदारकः // म कर्मपरिणामस्य गत्वा मूलं तदाज्ञया / समागतो ममाभ्यर्ण तत्रैवाह्लादमन्दिरे // 141 For Private and Personal Use Only