SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सबोधेनोदितं देव युक्तमेतत्र संशयः / किं तु कालविलम्बोऽत्र युक्तोऽद्यापि प्रयोजने // स हि पुण्योदयस्तस्य स च मातो वयस्यकः / कियन्तमपि तत्कालमेतौ भोगफलप्रदौ / अतोऽद्यापि बलादेतौ ग्रहे तं गुणधारणम् / भब्दादिसुखसंपूर्ण वात्सल्याद्धारयिष्यतः // एवं च स्थिते / अध्यास्ते स ग्टहं यावदनुवर्तनया तयोः / शब्दादिविषयग्रामं सुखहेतं च मन्यते // तावन युज्यते देव मम गन्तुं तदन्तिके / नयनं न च विद्याया जाघटौति कथंचन // केवलं प्रेथ्यतामेष देवेन निजदारकः / तदन्तिकेऽधुना वर्ण ग्रहिधर्मः सभार्यकः / / प्रस्तावोऽस्याधुना देव तत्समौ पेऽतिसुन्दरः / गन्तु सपरिवारस्य वर्तते कार्यमाधकः // गतमात्रमिमं देव म भावेन प्रपत्स्यते / भविष्यतोष्टा तस्यास्य भार्या सगुणरकता // किं च / यदा सदागमस्तावत्तस्य पार्श्व गतः पुरा / तदायं द्रव्यतस्तेन भूरिवारा विलोकितः // यदा तु तत्पार्श्वगतः सम्यग्दर्शननामकः / महत्तमोऽतिवात्मल्यानौतस्तेनाप्ययं तदा For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy