________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घटमः प्रस्तावः / तदानौं गुरुमूले मे मानन्तगुणतां गता // अन्यच्च / तदा कुलंधरेणापि महत्तमसदागमौ / तथा मदनमचर्या तौ प्रपन्नौ यथा मया // ततोऽधिकतरं तुष्टस्तदाहं म च मे मुनिः / विशेषतः करोत्येव भूयः सद्धर्मदेशनाम् // अत्रान्तरे। चित्तवृत्तिमहाटव्यां लौनलौनाः प्रकम्पिताः / भयेन रोधकं हित्वा महामोहादयः स्थिताः // ततश्च / चारित्रधर्मराजेन मन्त्री सद्दोधनामकः / इदमुक्तस्तदा भद्रे मनाक् संतुष्टचेतमा // यदुत / सुन्दरोऽवसरो गन्तुं विद्यामादाय तेऽधुना / आर्य संसारिजीवस्य पार्श्व गाढं फलप्रदः // तथाहि / शुभीभूताधुना किंचिच्चित्तवृत्तिमहाटवी / निवृत्तो रोधकोऽस्माकमौषरे च शत्रवः / तं कर्मपरिणामाख्यं ततः पृष्वा नरेश्वरम् / गच्छ त्वं शौघमादाय विद्यामेनां सुकन्यकाम् // कन्दमाधुसमीपस्थः साम्प्रतं स चरैया / विज्ञातस्तच चावश्यं भवन्तं प्रतिपत्स्यते // For Private and Personal Use Only