________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 631 बालकालवियुक्तश्च वयस्योऽत्यन्तवल्लभः / धनदत्तः समायातो वासवानन्ददायकः // इदं कारणमुद्दिश्य भवनेऽत्र प्रवेक्ष्यति / / श्रयं हर्षः प्रविष्टश्च पश्य किं किं करिष्यति // ततो विस्फारिताक्षोऽसौ प्रकर्षस्तबिरीक्षते / दूतश्च वासवस्तेन धनदत्तेन मौलितः // ततः प्रविष्टस्तदेहे म हर्षः मकुटुम्बके / संजातं च वणिग्गेहं वृहदानन्दसुन्दरम् // पाहता बान्धवाः सर्वे प्रवृत्तश्च महोत्सवः / ततो नृत्यन्ति गायन्ति वादितानन्दमर्दलाः // अपि च / वरभूषणसूज्वलवेषधरं प्रमदोद्धरखादनपानपरम् / धनदत्तसमागमजातसुखं तदभूदथ वासवगेहमुखम् // अथ तादृशि विस्मयसञ्जनके क्षणमात्रविवर्धितवर्धनके। निजमाममवोचत बुद्धिसुतः प्रविलोकनकौतुकतोषयुतः // यदिदं वेल्लते माम सर्वमर्दवितर्दकम् / वामवौयग्रहं तल्लिं तेन हर्षेण नाटितम् // विमर्शनोदितं वत्म साधु साधु विनिश्चितम् / प्रकाण्डमदनक्षोभे हर्ष एवात्र कारणम् // अत्रान्तरेऽतिबीभत्सः कृष्णवर्णधरो नरः / दृष्टो द्वारि प्रकर्षण तस्य वासवसद्मनः // ततस्तेनोदितं माम क एष पुरुषाधमः / For Private and Personal Use Only