________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 632 उपमितिभवप्रपञ्चा कथा / विमर्शनोक्तम् / वत्म शोकवयस्योऽयं विषादो नाम दारुणः // यश्चेष पथिकः कश्चित्प्रवेष्टुमिह वाञ्छति / प्रविष्टेऽत्र विषादोऽयं भवनेऽत्र प्रवेक्ष्यते // ततः प्रविश्य पान्थेन तेन वामवमन्निधौ / एकान्ते वासवस्यैव गुह्यं किंचिन्निवेदितम् // अत्रान्तरे प्रविष्टोऽसौ विषादस्तच्छरौरके / मूर्छया पतितश्चामौ वासवो नष्टचेतनः // हा हा किमेतदित्युच्चैर्विलपनिखिलो जनः / ततः ममागतस्तस्य निकटे भयविव्हलः // अथ वायुप्रदानाद्यैः पुनः संजातचेतनः / प्रलापं कर्तुमारब्धः सविषादः म वासवः // कथम् / हा पुत्र तात वत्मातिसुकुमारशरीरक / ईदृशौ तव संजाता कावस्था मम कर्मणा // निर्गतोऽमि ममापुण्यैर्वत्म वारयतो मम / दैवेन निघुणेनेदं तव जात विनिर्मितम् // हा हतोऽस्मि निराशोऽस्मि मुषितोऽस्मि विलक्षणः ! एवं व्यवस्थिते वत्स त्वयि किं मम जीवति // यावच्च प्रलपत्येवं स पुरस्नेहकातरः / तावद्विषादः मर्वेषु प्रविष्टः स्वजनेष्वपि // अथ ते तस्य माहात्म्यात्मर्व वासवबान्धवाः / For Private and Personal Use Only