________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। प्रकर्षणोदितं माम महाकष्टकमौदृशं / यदुर्भाषणमात्रेण संप्राप्तोऽयं वराककः // मातुलेनोदितं वत्म विकथासक्नचेतमाम् / अनियन्त्रिततुण्डानां कियदेतदुरात्मनाम् // इयं हि कुरुते वैरं देहिनां निर्निमित्तकम् / विधत्ते जनसन्तापं मुत्कला भद्र भारती // ते धन्यास्ते महात्मानस्ते श्लाघ्यास्ते मनस्विनः / ते वन्द्यास्ते दृढास्तत्त्वे ते जगत्यमृतोपमाः // येषां मिताक्षरा मत्या जगदाल्हादकारिणी / काले मसद्धिपूता च वर्तते भद्र भारती // ये तु मुत्कलवाणीका वदन्तेऽर्दवितर्दकम् / तैरव महान नेदृशा वत्स दुर्लभाः / / सुश्लिष्टा मोचयत्येषा भारती तात देहिनम् / उच्छखला पुनर्वत्म तमेषा बन्धयत्यलम् // तदस्य विकथामूलं दुर्भाषाव्यसने फलम् / इदमौदृशमापन्नं परलोके च दुर्गतिः // अत्रान्तरे प्रकर्षण राजमार्ग निपातिता / दृष्टिदृष्टश्च तत्रैकः शुक्लवर्णधरो नरः // ततः पप्रच्छ तं वीक्ष्य क एष इति मातुलम् / तेनोनं वत्म हर्षोऽयं रागकेसरिसैनिकः // अत्यत्र मानवावासे वासवो नाम वाणिजः / इदं च दृश्यतेऽभ्यर्ण तस्य गेहं महाधनम् // For Private and Personal Use Only