________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः। अचान्तरे गतोऽस्तं दिनकरः समुन्नमितं तिमिरं विस्फुरितस्तारकानिकरः वियुक्ताश्चक्रवाकाः मुकुलितं कमलवनं निलौनाः शकुनयः प्रमारिताः कौशिका: प्रहष्टा भूतवेताला: समुद्रतः शशधरः विलमिता चन्द्रिका / ततश्चित्तप्रमोदकारिणौ भिः कथाभिविनोदयन्तौभिस्तां वत्सां मदनमञ्जरीमतिवाहितास्माभिः कथंचिद्रजनी। समुद्तो दिनकरः / मयोक्तं / हले लवलिके स्थिता गगनमार्ग निरूपय निजखामिवर्तनौं किमसौ चिरयति / ततो यदाज्ञापयति खामिनौति वदन्तौ स्थितेय नभस्तले लवलिका। स्थित्वा च क्षणमात्रं समवतीर्णा महर्षा / मयो त / हले किं सहर्षासि किं ममागतस्तेः खामौ / अनयोक्तं / अम्ब नाद्यापि समागतः स्वामी। किंतु समागतौ तौ राजकुमारौ। निरीक्षित च ताभ्यां भर्ददारिकादर्शनार्थं समस्तमुद्यानं। केवलमतिगहनतयास्य प्रदेशस्य न दृष्टा भर्खदारिका / ततोऽसौ भर्खदारिकाहृदयदयितः मविषादः सन्नुतस्तेन द्वितीयेन / यथा कुमार गुणधारण स्थौयतां तावत्तत्रैव चूतवने तस्यैव च चूतत्याधो यत्र दृष्टामौद्भवता मा चटुलपवनचलितकुवलयदललोललोचना हृदयतस्करो। किमन्यत्र पर्यटितेन / कदाचिदैवयोगात्यनस्तत्रैवोपलभ्यत इति / तेनोक्त / एवं भवतु / ततो गतौ तौ तदभिमुखं / इदमम्ब मे हर्षकारणं / वत्सयो / भवतु मातः किमेवं मां प्रतारयमि / ततोऽनया तत्प्रत्यायनार्थ कृतानि शपथशतानि / तथापि न प्रत्यायिता वत्मा मदनमञ्चरौ / मयोक्तं / हले जवलिके किमनेन बहुना / दर्शय तावन्मे कुमार येन. तं खयमेवेहानीय वत्मामाह्लादयामि / For Private and Personal Use Only