________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11.. उपमितिभवप्रपञ्चा कथा / वर्णिता मया नामतो गोचतो विभवतो निवासतो रूपतो गुणनधिहतच प्रत्येकमेते / तद्यथा / वत्से मदनमञ्जरि / एषोऽमितप्रभो नाम विद्युद्दत्तस्य नन्दनः / अतुलर्द्धिश्च वास्तव्यः पुरे गगनवल्लभे / सुराकारधरोऽशेषकलाकौशलकोविदः / केतौ चारुमयूरेण लमतालं विराजते / तथा / एष भानुप्रभो नाम नागकेसरिनन्दनः / महर्द्धिको महावीया गान्धर्वपुरनायकः / कमनीयाकृतिर्वत्मे भूरिविद्याविशारदः / पाकरो गुणरत्नानां प्रसिद्धो गरुडध्वजः / तथा / अयमपि च रतिविलासो रतिमित्रसुतो महर्द्धिसंपन्नः / तदधिपतिरेष निवसति रथनूपुरचकवालपुरे // कनकावदातवपुरेष निखिलविज्ञानगुणगणोपेतः / ननु पश्य मदनमञ्जरि वरवानरकेतयष्टियुतः / तदेवं यावदेकैकं वर्णयामि नरेश्वरम् / तावद्विषादमापना वत्मा मदनमञ्जरी॥ तथाहि / दृष्टा मा तदा मया दुर्भगनारीव सपत्नौगुणेषु विषगतसुभट दूव शचुवौर्येषु समत्सरवादीव प्रतिवादिमौष्ठवेषु अर्थवैद्य दुव प्रतिवैद्यकौशलेषु मोत्मेकविज्ञानिक दव प्रतिविज्ञानिकनैपुणेषु For Private and Personal Use Only