________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रस्तावः। पृष्टा नैमित्तिकाः उपचरिता मन्त्रवादिनः विन्या मितानि तन्त्राणि पौतानि मूलजालानि कृतानि कौतुकानि निःसारिता अवश्रुतयः शोधितानि जातकानि अवतारिताः प्रश्राः प्रार्थिताः प्रशस्तखानाः अभ्यर्थिता योगिन्यः कृतं मवें यदुक्तं किंचित्केनापौति / ततो मध्यमे वयसि प्रादुर्भूतो मे गर्भः। प्रहष्टो राजा। क्रमेण च प्रसूताहं / जाता देहप्रभया दिक्चक्रवालमुद्भासयन्तौ दारिका / निवेदिता राजे / परितुष्टोऽसौ / कारितं महावर्धनकं / प्रतिष्टितं प्रशस्तदिने नाम मदनमञ्जरौति। वर्धिता मा सुखमन्दोहेन / मंजातेयमत्यन्तमभौष्टा जनकप्रियपदातिनरसेनवलरिकादुहिता तस्याः प्रियसखौ लवलिका। ग्राहिता सार्धमनया मा मकलाः कलाः। प्राप्ता यौवनं। ततः कलामौष्ठवेन रूपातिशयेन च न ममोचितः पुरुषोऽस्तीति बुद्ध्या संजाता पुरुषवेषिणों मा वत्सा मदनमञ्जरी। तच्च लवलिकावचनेन विज्ञाय तदाकूतं विषणाहं / निवेदितं महाराजाय। मंजातोऽसौ मचिन्तः कथमियं करिष्यत इति। ततः समुत्पन्नास्य बुद्धिः। कारितोऽनेन स्वयंवरामण्डपः / समाइताः सर्वे विद्याधरनरेन्द्राः / समागता वेगेन / कृतास्तत्प्रतिपत्तयः। विरचिता मच्चाः। स्थिताः सर्वे यथास्थानं / उपविष्टः स्वयंवरामण्डपमध्ये सपरिकरो राजा। प्रविष्टाहं विरचितवरनेपथ्यालङ्काराङ्गरागमाल्यादिविच्छितिचर्चनां ग्टहीत्वा वत्मा मदनमजरौं मह लवलिकया। तां चापहमितामरसन्दरौलावण्यां कन्यामुपलभ्य प्रबलचित्तकल्लोरलमुलमाना अपि तस्यां विनिविष्टदृष्टिचेष्टाः स्थिताश्चित्रन्यस्ता दूब निश्चलाः सर्वे ऽम्बरचराः। For Private and Personal Use Only