________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घरमः प्रस्तावः। केवलं निकटस्थायौ यतः पुण्योदयोऽनघः / ममाभूत्तेन सा जाता नात्यर्थं बत बाधिका / अनधः म करोत्येव यतः पुण्योदयो नृणाम् / मांसारिकपदार्थेषु निराबन्धमिदं मनः // तथापि तामनुस्मृत्य मनाक् चिन्तामहं गतः / यथा कस्य पुनः मा स्थानौलनौरजलोचना // चिन्तयित्वा गतो निद्रां विभाता च विभावरी / प्रभाते च ममाथातो मत्समीपं कुलंधरः // ईषद्दर्शनलोभेन तस्याः सोऽभिहितो मया / वयस्य किं व्रजावोऽद्य पुनराक्षादमन्दिरे / मतः कुलंधरेणोकं स्मितबन्धुरया गिरा। किमिदं गम्यते किं ते विस्मृता तत्र कुञ्चिका // अये जातो ममानेन भाव इत्यवधार्य च / मया सोऽभिहितो मित्र परिहासो विमुच्यताम् / गम्यतां पुनरुद्याने का कस्येति च वीक्ष्यताम् / उचिता कन्यका चेति नेति वा सा परोक्ष्यताम् / अन्यच्च / परभार्या ग्रहीय्येऽहं विकल्पमिति मा कृथाः / कन्यका चेन्न मुञ्चामि तामिन्द्रस्यापि धावतः / ततः कुलंधरः प्राह मित्र मोत्तालतां गमः / गच्छावः क्रियते सर्व यदयस्याय रोचते // मतो गतौ पुनस्तत्र कानने तनिरूपितम् / For Private and Personal Use Only