________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / यावद्विकारलेशेन युक्तो जातः शुभानने / নাননিৰীৰিনৰ মাৰূন স্নানঘনা। वयस्येन मयाप्युच्चैराकारवरणं कृतम् // चिन्तितं च मया हन्त लज्जाकारि विवेकिनाम् / इदं मकामया दृश्या यत्परस्त्री निरीक्षणम् // तदस्यां दृष्टिपातं मे दृष्ट्वा निर्मलचेतमा / अहो कुलंधरेणात्र न जाने किं विचिन्तितम् // ततो लज्जाभरणाहं मुखं तस्य पुनः पुनः / अपश्यतः परीक्षार्थं तदात्यर्थ निभालये // अथ विज्ञातमद्भावः कलाकौशलकोविदः / निगूढं काकलौं कृत्वा मामाह म कुलंधरः / / कुमार किं स्थितेनात्र गम्यतामधुना ग्टहे। क्रीडितं बहती वेलामपराह्नो हि वर्तते // मयोक्तं रोचते यत्ते तदेव क्रियतामिति / ततो ग्टहे गतावावां कृतं च दिवमोचितम् // अथ रात्रौ विविक्तायां शय्यायां मम तिष्ठतः / मा चेतमि कुरङ्गाक्षी खात्य पुनरागता // नाभविष्यच्च नेदिष्ठो यदि पुण्योदयोऽनघः / तथा मे वर्तमानस्य तदा भद्र महायकः // ततः // मा शल्यभूता मे चित्ते विलगन्ती मुहुर्मुहुः / अकरिष्यदवस्था यां माख्यातुं नैव पार्यते // For Private and Personal Use Only