________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1064 उपमितिभवप्रपञ्चा कथा / उद्दामनृत्तमंगोतं मधुवारणमन्दिरम् // तथा / विहितं च नरेश्वरतोषकरं वरराममलामविलामधरम् / बड़वादनखादनगानपरं मदिरामदघूर्णितचास्नरम् // विलयाजननर्तितवामनकं कृतकुब्जककञ्चुकिहामनकम् / विहितार्थिमनोरथपूरणकं कृतलोकचमत्कृति वर्धनकम् // ततः समुचिते काले महानन्दपुरःमरम् / जनकेनैव मे नाम स्थापितं गुणधारणः // पञ्चाभिश्चारधाचौभिललितोऽमरवद्दिवि / ततोऽहं वृद्धिमायातः सुखसागरमध्यगः / / दूतश्च / मगोत्रो मत्पितर्मित्रं जीवितादपि वल्लभः / नरेन्द्रोऽस्ति विशालाक्षस्तस्य सूनुः कुलंधरः // म मप्रमोदे तत्रैव तातलेहेन संस्थितः / ततो ममापि संपन्नः स वयस्यः कुखंधरः // म च स्वस्थाशयो धन्यः सुरूपः सुभगः कृतौ / समस्तगुणसंपन्नः मत्य एव कुलंधरः // ततः संवर्धमानोऽहं तेन सार्धं सुमेधमा / संजातोऽर्पितमद्भावः स्नेहनिर्भरमानसः // ततश्च / समं कृतकलाभ्यामौ कौडारमपरायणौ / संप्राप्तौ चारुतारुण्यमावां मदनमन्दिरम् // For Private and Personal Use Only