________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिमवप्रपञ्चा कथा / तदेते बहुशो दृष्टास्त्र योऽपि वरबान्धवाः / जाताश्च सुखदास्तत्र विमुक्ताश्चान्तरान्तरा // अन्यच्च / दृष्टश्च केवलोऽप्येषोऽनन्तवाराः मदागमः / न बनेन विना दृष्टः म सम्यग्दर्शनः क्वचित् / / अन्यच्च / यत्र यत्र समीपस्थः संजातो मे महत्तमः / तत्र तत्र वयस्थो मे जातः पुण्योदयः पुरा / तेन चोत्पादिताः मर्वा यथेष्टा भोगसम्पदः / वसतो मानवावासे पुरे च विबुधालये / / तथा। स्थिता कर्मस्थितिध्वी भौतभौताश्च शत्रवः / अन्तर्लोनाः स्थिता भद्र महामोहादयस्तथा / यत्र यत्र पुनर्जाताः प्रबला भावशत्रवः / मत्तः पुण्योदयो नष्टस्तत्र तत्र वरानने // नष्टे च तत्र जाता मे सर्वा दुःखपरंपरा / भ्रमितोऽनन्तकालं च भवितव्यतया तया // तथा। स्थितिमा॑घीयसो जाता कर्मणः क्लिष्टतां गतम् / मानसं च पुनर्जातं तत्त्वश्रद्धानवर्जितम् // अत एवोत्कटा जाता यत्र यत्र महारयः / ते मत्तस्तत्र ततौ दूरीभूतौ सुबान्धवौ // For Private and Personal Use Only