________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1087 विशेषः पुनरेषोऽत्र कथ्यते ते निराकृतः / म मिथ्यादर्शनाख्येन सम्यग्दर्शननामकः / / ज्ञानसंवरणेनापि दूरं नीतः मदागमः / क्वचित्तावपि निर्जित्य ताभ्यामपि निराकृतौ // एवं चानन्तकालं ते जयभङ्गपरायणाः / देशकालबलं प्राप्य जाता भद्रे परस्परम् // मामकः पक्षपातोऽभूधयोरेव विशेषतः / तयोरेव तदा जातो जयो भङ्गस्तदन्ययोः // अन्यदा मानवावासमध्यवर्तिनि सुन्दरे / पुरे मोपारके पत्न्या नौतोऽहं नौरजेक्षणे // वणिजः शालिभद्रस्य भार्यास्ति कनकप्रभा / जातस्तस्याः सुतोऽस्मौति तत्र नाम्दा विभूषणः // अथ सूरिं सुधाभृतमासाद्य शुभकानने / पुनदृष्टौ मया भट्रे महत्तममदागमो // ततश्च / तत्त्वश्रद्धानसपनो भावतो विरतिं विना। जातो गुरूपरोधेन श्रमणोऽहं तदानघे // ततो ग्टहीतलिङ्गस्य माधुमध्येऽपि तिष्ठतः / जातं मे कर्मदोषेण वैभाष्यनिरतं मनः // ततः प्रबलतां प्राप्ता महामोहादयः पुनः / जातौ च भावतो दूरे महत्तममदागमौ // For Private and Personal Use Only