________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1.85 शत्रवः सुक्षदाभासा महामोहादयस्तदा // अथाहमनयोः प्राप्य माहात्म्य चारुभाषिणि / द्वितीयकल्पे संप्राप्तः सत्पुरे विबुधालये // तत्रस्थस्यापि संपन्नौ ममेमौ स्मृतिगोचरौ। भुकं च सुचिरं दिव्यं सुखं तत्र मयातलम् // ततो मनुजगत्यन्तः पाटके काञ्चने पुरे। श्रागतस्य महामोहदोषतो विस्मृताविमौ // इत्थं संख्याधिका वारा दृष्टो दृष्टः पुनः पुनः / मदागमयुतो भने नष्टोऽसौ मे महत्तमः // यतः। विना विरतिभावेन संख्यातीतेषु धामसु। श्रद्धानमात्रसंतुष्टो जातोऽहं श्रावकः पुरा // तथा। सुजुत्वादुपरोधादा क्वचिच्छ्रद्धानसंयुतः / जातः श्रमणवेषोऽहं विरत्या रहितो हदि // अन्यच्च / संख्यातीता मया वारा यत्र यत्र विलोकितः / महत्तमः पुनदृष्टस्तत्र तत्र मदागमः // ग्टहिधर्मऽपि तन्मूले दृष्टः सामान्यरूपतः / कचिवचित्र दृष्टोऽपि स महत्तमपार्श्वगः // सम्यग्दर्शनयुक्तौ च स्टहिधर्मसदागमौ / मामान्यरूपौ तौ भद्रऽसंख्यवारा विलोकितौ // For Private and Personal Use Only