________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1084 उपमितिभवप्रपञ्चा कथा। मागतौ विस्मृतत्वेन महत्तममदागमौ // सुतरां विस्मृतो भने न दृष्टश्च तदा मया। रहिधर्मो यतस्ताभ्यां स निर्मुको न दृश्यते / / प्राचीनवासनाबन्धात् केवलं पापभीरुकः / स्थितो भद्रकभावेन तवाहं हंसगामिनि // पुनस्तदनुभावेन सत्पुरे विबुधालये। ज्योतिश्चारिषु नौतोऽहं गुडिकादानपूर्वकम् // स्थितस्तत्रापि मद्भोगमम्पत्तिप्रीणितेन्द्रियः / सुचिरं किं तु तौ दृष्टौ महामोहपरिग्रहौ / संजातश्च तयोर्भूयः पक्षयातो बहत्तरः / नितरां विस्मृतावेतौ महत्तममदागमौ // ततो जीर्णवमाने तां वितीर्य गुडिकां पुनः / पञ्चाक्षपशुसंस्थाने नौतोऽहं रुष्टया तया // विहितो दर्दुराकारधारकः केसिशीलया। ततः परं पुनर्भरि धमितोऽर्दवितर्दकम् // नानाविधेषु स्थानेषु भ्रमधित्वा स्वभार्यया / भानीय मानवावामं पुरे काम्पिल्यनामके / धराया वसुषन्धोश्च सूनुर्वासवनामकः / कृतोऽहं कृतमत्कर्मा राजपुत्रो मनोरमः // तत्र चासाद्य मान्याख्यं सूरिं सद्धर्मदेशकम् / दृष्टाविमौ पुनर्भद्रे महत्तमसदागमौ // ततः परिचयादाभ्यां तनूभूताः पुनर्मम / For Private and Personal Use Only