________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1083 देवोऽमि खामिकोऽस्माकमिति किङ्करतां गताः // नतोऽहं विस्मयोत्फुल्ललोचनः पर्यचिन्तयम् / नां समृद्धिं विलोक्येदं किं मया सुकृतं कृतम् // ततः प्रादुरभूज्ज्ञानं विमलं विमलेक्षणे / मया विरोचनावस्थानेन सर्वावधारिता // अत्रान्तरे ममायातौ महत्तममदागमौ / तौ च दृष्ट्वा मया ज्ञातं माहात्म्यमनयोरिदम् // ततस्तौ पूर्ववरे प्रतिपन्नौ स्वबान्धवौ / कृतं चोत्थाय निःशेषं कर्तव्यं विबुधोचितम् // तथाहि। विविधरत्नसदीधितिरञ्चिते विकचनौरजखण्डसमण्डिते / गुरुनितम्ब पयोधरचारुभिः सह वधूभिरमन्नि सरोवरे // तदनु निर्मलहाटकनिर्मितं विशदरत्नविराजितकुट्टिमम् / लघु मलौलमवाप्य जिनालयं सुदृढभक्ति कृतं जिनवन्दनम् // अथ सुनिर्मलपचकसञ्चयं मणिमयं जिनभाषितबन्धुरम् / पुलककारि रसेन तु वाचितं लघु विघाश्य मनोरमपुस्तकम् // ततो यथेष्टशब्दादिसंभोगमुदिताशयः / मागरद्वितयं तत्र किंचिदूनं व्यवस्थितः // तदन्ते मानवावासमानीय विहितस्तया / अाभौरोऽहं कलन्दाख्यः सूनुर्मदनरेणयोः / इतश्च / तत्रायातस्य चार्वङ्गि मम तौ चारुवान्धवौ। For Private and Personal Use Only