________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1082 उपमितिभवप्रपञ्चा कथा / अतः श्रद्धानमात्रं मे सूक्ष्मज्ञानविवर्जितम् / धर्मघोषोपेदशैस्तैः संजातं योग्यतानुगम् // अन्यच्च / पल्योपमपृथक्के तु चौणे कर्मस्थितेस्तदा / ग्रहिधर्मो मया दृष्टः मामान्यान्न विशेषतः // पालितानि तदादेशाद्रतानि नियमास्तथा / केचित्तदा मया भने श्रद्धासंशद्धबुद्धिना || ततस्तदनुभावेन मत्पुरे विबुधालये / कल्पवामिषु नौतोऽहं गुडिकादानपूर्वकम् // अथ सौधर्मकल्येऽहं भाखराकारधारकः / ममुत्थितः क्षणार्धन शयनात्तच कौदृशम् // दिव्यपल्यङ्कसत्तूलौरचितं स्पर्शपेशलम् / कोमचामलसच्चे लच्छादितं चित्तनन्दनम् // सुमनोगन्धसद्धूपलसदामोदसुन्दरम् / दिव्यांशुकवरोलोचदृष्टिगोचरबन्धुरम् // तत्र चोटेल्लमानेन बाहुयुग्मेन विस्मितः / किरीटकटकेयूरहारकुण्डलभूषितः // भूषाङ्गरागताम्बू लवनमालाविराजितः / उपविष्टः क्षणाज्जातो धोतिताखिलदिक्पथः // ततोऽलं जय नन्देति जय भट्रेति भाषिणः / सले खा लखना लोका खोललोचनचारवः // स्तुवन्तो मां मनोहारिवननैः कर्णपेणम्नैः / For Private and Personal Use Only