________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 628 उपमितिभवप्रपञ्चा कथा / स्फुरन्तं जीवमातं तस्य मांसं च खादति // तस्येह यदि दुःखानि भवन्त्येवंविधानि भोः / परत्र नरके पातो वाम किं तत्र कौतुकम् // बीभत्समशः पिण्डो निन्द्यं रोगनिबन्धनम् / कृमिजालोल्वणं मांस भक्षयन्तीह राक्षसाः // यस्त्विदं धर्मबुद्ध्यैव भक्ष्यते स्वर्गकाम्यया / कालकूटविषं नूनमधुस्ते जीवितार्थिनः // अहिंसा परमो धर्मः स कुतो मांसभक्षणे / अथ हिंसा भवेद्धर्मः स्यादमिहिमशीतलः // किमत्र बहुना। धर्मार्थं रमग्रड्या वा मांसं खादन्ति ये नराः / निघ्नन्ति प्राणिनो वा ते पच्यन्ते नरकाग्निना // अन्यच्च / यथा गोमायुघाताय ताम्पत्येष निरर्थकम् / श्राखेटके रतात्मानस्तथैवान्येऽपि जन्तवः // यावच्च वर्णयत्येवं विमर्शस्तस्य चेष्टितम् / तावल्ललनवृत्तान्तो यो जातस्तं निबोधत // म जम्बुकविनाशार्थं धावन्नुच्चैर्दुरुत्तरे / सतुरङ्गो महागर्ने पतितोऽधोमुखस्तले // ततः संचूर्णिताङ्गोऽसौ क्षुद्यमानो हयेन च / अचाणो विरटन्नुच्चैस्तत्रैव निधनं गतः // ततः प्रकर्षणाभिहितम् / For Private and Personal Use Only