________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / कथम् / मनुजजन्मजगत्यतिदुर्लभं जिनमतं पुनरत्र विशेषतः / तदिदमाप्य नरेण सुमेधमा विठपनीयमतोऽपि परं पदम् // इतरथा पुनरेव निरन्तके निपतितस्य सुभौमभवाध्वके / कुशवाम्बलमुत्कलमौदनं ननु विनातुलदुःखपरंपरा // इदमवेत्य जनेन विजानता कुशलकर्म भवोदधितारकम् / दूह विधेयमहो विफलं मुधा न करणौयमिदं नरजन्मकम् // अत्रान्तरे प्रत्यक्षीभूतो मे तस्य मुनेः समीपे भूयोऽपि भगवानयं सदागमः। ततो बुद्धं मया तम्य मुनेर्वचनं। अभिहितं च / यन्मया कर्तव्यं तदादिशन्तु भगवन्तः। मुनिनोक्र / भद्राकर्णय / अवधौरणीयो भवता भवप्रपञ्चः / श्राराधनौयो विलौनरागद्वेषमोहोऽनन्तज्ञानदर्शनवौर्यानन्दपरिपूर्णः परमात्मा। वन्दनौयास्तदुपदिष्टमार्गवर्तिनो भगवन्तः माधवः / प्रतिपत्तव्यानि जीवाजीवपुण्यपापासवसंवरनिर्जराबन्धमोक्षलक्षणानि नव तत्त्वानि सर्वथा / पेयं जिनवचनामृतं / नेयं तदङ्गाङ्गौभाषेन / अनुष्ठेयमात्महितं / उपचेयं कुशलानुवन्धिकुशलं / विधेयं निष्कलङ्गमन्तःकरणं / हेयं कुविकल्पजल्पजालं / अवमेयं भगवद्वचनसारं / विज्ञेयं रागादिदोषवृन्दं / लेयं मुगुरुमदुपदेशभेषजं / देयं सततं सदाचरणे मानसं / अवगेयं दुर्जनप्रणीतकुमतवचनं / विमेयं महापुरुषवर्गमध्ये स्वरूपं / स्थेयं निष्पकम्पचित्तेनेति / एवं चोपदिशति मधुरभाषिणि भगवति धर्मघोषतपखिनि संप्राप्तोऽसौ सम्यग्दर्शननामा महत्तमः / विलोकितो दुर्भदकर्मग्रन्थिभेरद्वारेणगौ मया / ततः For Private and Personal Use Only