________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / कालेन भूयमा रूपं भोत्स्यते हि स तावकम् // ततश्च / यदा स्यात्तेन विज्ञातं रूपं तव परिस्फुटम् / तदाहमागमिष्यामि विद्यामादाय तेऽन्तिके // सदागमस्य सानाथ्यं महामोहादितानवम् / तथा संसारिजौवस्थ सुखवादादिवेदनम् // देवे चाभिमुखौभावस्तस्य दर्शनकाम्यया / विद्यया रहितस्यापि गच्छतस्तत्र ते गुणाः // ततो यदादिशत्यार्यो यच्चाज्ञापयति प्रभुः / इत्युत्का प्रस्थितस्तुणे मत्समीपं महत्तमः // इतवाहं तदा भट्रे नगरे जनमन्दिरे / सूनुरानन्दनन्दिन्योर्जातो नाम्ना विरोचनः // ततः संप्राप्ततारुण्यः कानने चित्तनन्दने / गतस्तत्र मया दृष्टो धर्मघोषो मुनौश्वरः // दूतश्च मे तदा हवा वर्तते कर्मपद्धतिः / महामोहादयो जातास्तनको भावशत्रवः / নন। प्रणम्य तं महाभागं निषणः शुद्धभूतले / ज्ञातोऽहं भद्रकस्तेन ज्ञानालोकेन धीमता || किं च / कुर्वता मानसानन्दममृतचरणोपमम् / ततो मे कर्तुमारधा मुनिना धर्मदेशना / For Private and Personal Use Only