________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / आर्य विज्ञाप्यतां देवः साम्प्रतं गम्यतां मया // यस्त्वया पूर्वनिर्दिष्टो देवस्याग्रे नरोत्तम / सोऽधुना वर्तते लग्नः प्रस्तावो हन्त मादृशाम् // मद्बोधेनोक्त / चारु चारूदितं तात सम्यक् संलक्षितोऽवधिः / ततो विज्ञापितस्तेन सद्बोधेन नरेश्वरः // ततश्च। चारिचधर्मराजेन वचनात्तस्य मन्त्रिण: / प्रहितो मत्समौ पेऽसौ सम्यग्दर्शननामकः // तेन चोतं / विद्येयं नौयतां देव प्रामृतं कन्यकानघा / तस्य संसारिजीवस्य येन तोषोऽस्य जायते // सबोधः प्राह नाद्यापि प्रस्तावोऽस्या महत्तम / नयने हन्त विद्यायास्तत्राकर्णय कारणम् // स हि संसारिजौवस्तां मुग्धबुद्धिर्न भोज्यते। विशेषतस्ततस्तावत्मामान्येन प्रपत्स्यते // एवं च स्थिते / यावत्र तात्त्विकं रूपं तवानेनावधारितम् / तावन्न युज्यते दातमेषा तस्मै सुकन्यका // अज्ञातकुलशौलो हि कुर्यादस्याः पराभवम् / ततः स्थाञ्चित्तसंतापो मादृशां तनिमित्तकः // ततो गच्छ विना विद्यां वं तावत्तस्य मन्निधौ / For Private and Personal Use Only