________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / एवं विचरतानन्ते भवचक्रे पुनः पुनः / तथानन्तेन कालेन मया भार्यानियोगतः // अयं सदागमो भने महात्मा प्रविलोकितः / अनन्तवारा दृष्टोऽपि विस्मृतश्च पुनः पुनः // विस्मृते च पुनर्धान्तं भवचक्र निरन्नकम् / प्रासादितः कथंचिच्च पुनरेष सदागम: // यतः। अनन्तवाराः संपन्नः श्रावकोऽहं सुलोचने / द्रव्यतो यतिरूपश्च तत्र दृष्टः सदागमः // विमुच्यमं महाभागं भूयो भूयोऽन्तरान्तरा / भ्रान्तः समस्तस्थानेषु कृता नानाविडम्बनाः // कुतौर्थिकयतिश्चाहं मदागमविदूषकः / अनन्तवाराः संपनो भवचक्रे निरन्तके // अन्यच्च भ्रमतस्तत्र भवचक्रे ममाखिले / क्वचिद्दौर्घा क्वचिवस्खा संजाता कर्मण: स्थितिः // क्वचिच्च प्रबला जाता महामोहादिशत्रवः / क्वचित्मदागमो जातः प्रबल स्तनिवारकः // ततश्चानन्तवाराभिर्यावदभ्यासमागतः / अयं मदागमस्तावनातं यत्तन्निबोध मे // मा किंचिनिर्मलीभूता चित्तत्तिर्महाटवौ / ततश्चावमरं ज्ञात्वा प्रस्थितः म महत्तमः // उक्तश्चानेन मद्दोधो मत्समौपागमेच्छया / For Private and Personal Use Only