________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.76 उपमितिभवप्रपञ्चा कथा / कल्पस्थासदतीताश्च विभेदास्तुर्य पाटके // कल्पस्था द्वादशावासमंस्थिताः समुदाहताः / नवपञ्चनिवासस्थास्तदतीताः प्रकीर्तिताः // तत्राद्ये पाटके भने जातोऽहं भावनम्तदा / प्राद्यभेदस्थितेष्वेव विबुधः कुलपुत्रकः // ततश्च / गतस्य तब पद्माक्षि विस्मतो मे सदाममः / स्थितोऽयमपि मां हित्वा कुर्वाण: कालथापनाम् // ततो महर्द्धिसंपन्नः माधैं पल्योपमं मुदा / सुखं यथेष्टं भुजानः स्थितोऽहं चारुलीलया // तदन्ते गुडिकां दत्त्वा भार्यया तष्टचित्तया / पुरेऽहं मानवावासे समानौतः पुनस्तया // तत्रास्ति बन्धुदत्तस्य वणिजः प्रियदर्शना / भार्या तस्याः सुतत्वेन जातोऽहं चन्धनामकः / संप्राप्तयुक्भावेन सन्दराख्यो मुनीश्वरः / दृष्टो मथा समीपस्थस्तस्य चायं मदागमः // शिक्षितं पुनरष्यस्य सम्बन्धि ज्ञानमल्पकम् / जातशाहं तदा भने श्रमणो भाववर्जितः / गतस्तदनुभावेन भूयोऽहं विबुधालये / महर्द्धिविबुधस्तत्र आतो व्यन्तरपाटके / न नौतो विस्मृतत्वेन मया तत्र सदागमः / गतेन मानवावासे पुनश्च प्रविलोकितः // For Private and Personal Use Only