________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / रात्रिंदिवं निममात्मा स्थितोऽहं विगतत्रपः // सुभूयसापि कालेन न भोगैस्तप्तिमागतः / तपानेन किं जातः पौनगण्डोऽत्र वानरः // भुञानस्य च मे भोगान् वर्धते भोगढष्णिका / सुतरामुखसत्येव जलेन वडवानलः // अकलङ्कोपदेशास्ते शशाङ्ककरनिर्मलाः / तदा मे विस्मृताः सर्व महामोहघमावृताः // 'ततो मां तादृशं दृष्ट्वा भावशत्रुविचेष्टितम् / न मेऽवसर इत्येवं गतो दूरं मदागमः // याभिमतकामांश्च संपादयति मे तदा / अमौ पुण्योदयोऽहं तु विमूढस्तं न वक्षये // ततो विमुक्कनिःशेषराज्यकार्यों दिवानिशम् / अन्तःपुरगतः स्त्रैणं भुञ्जानोऽहमवस्थितः // तथा। यो यो नारौं प्रपश्यामि नगरे चारुविग्रहाम् / कुलजामकुलजां वा यां वा कश्चिनिवेदयेत् // तां तां सवा समाकृष्य जनेभ्यो बसवतया / अन्तःपुरे प्रवेश्याहं करोमि निजपत्रिकाम् // न जानामि महापापं नापेक्षे कुखलाञ्छनम् / गण्यामि न चाधन्यो वारकं मन्त्रिमण्डलम् // ततो विरक्ताः सामन्ताः पुरं चोदेगमागतम् / तादृशाधमशोलेन लब्निता मम बान्धवाः // For Private and Personal Use Only