________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1001 पदातयोऽपि संपत्रा मम निन्दाविधायकाः / गुणः सर्वत्र पूज्यन्ते सम्बन्धो नात्र कारणम् // अहं तु तादृशौं लोकान्जानानोऽप्यात्मगहणम् / महामोहवशीभूतो निन्द्यकर्मरतः स्थितः // या नौचकुलमंजाता याश्चागम्याः स्त्रियो नृणाम् / मर्वाः खेऽन्तःपुरे चिप्तास्ता मया पापकर्मणा // अथासौच्च कनिष्ठो मे धाता नौरदवाहनः / लनापरो विनीतात्मा प्रख्यातः मारपौरुषः // ततश्च / मत्तो विरक्तः सामन्तैः पौरमन्त्रिमहत्तमैः / एकवाक्यतया सर्वैः म प्रोको रहसि स्थितः // यदुत। अगम्यगमनामको निर्मर्यादो विमूढधीः / नष्टधर्मा पशोस्तुल्यो य एवं कुलदूषणः // सोऽयं सिंहासनस्येव मारमेयो नराधमः / अस्य योग्यो न राज्यस्य कुमार घनवाहनः .. अनेन हारितं राज्यं वंश्यानां लाघवं कृतम् / न युज्यते ततोऽस्माकं विनाशोऽयमुपेचितम् // अतोऽयं प्रतिराज्येषु वृत्तान्नो नावगम्यते / यावत्तावत्कुमारोऽत्र राजा भवितुमर्हति // अन्यथा नैष ते भ्राता न राज्यं न च भूतयः / न वयं न यशो नैव नगरं भो भविष्यति // For Private and Personal Use Only